|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.91. अध्यायः 091
Mahabharata - Drona Parva - Chapter Topics
अर्जुनस्य व्यूहमुखस्थेन द्रोणेन कञ्चित्कालं युद्ध्वा तमपहाय व्यूहप्रवेशः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-91-0x(4493)(48123)
दुःशसनबलं हत्वा सव्यसाची महारथः।
सिन्धुराजं परीप्सन्वै द्रोणानीकमुपाद्रवत्॥ 7-91-1(48124)
स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम्।
कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत्॥ 7-91-2(48125)
शिवेन ध्याहि मां ब्रह्मन्स्वस्ति चैव वदस्व मे।
भवत्प्रसादादिच्छामि प्रवेष्टं दुर्भिदां चमूम्॥ 7-91-3(48126)
भवान्पितृसमो मह्यं धर्मराजसमोऽपि च।
धौम्यकृष्णसमश्चैव सत्यमेतद्ब्रवीमि ते॥ 7-91-4(48127)
अश्वत्थामा यथा तात रक्षणीयस्त्वयाऽनघ।
तथाऽहमपि ते रक्ष्यः सदैव द्विजसत्तम॥ 7-91-5(48128)
तव प्रसादादिच्छेयं सिन्धुराजानमाहवे।
निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे प्रभो॥ 7-91-6(48129)
सञ्जय उवाच। 7-91-7x(4494)
एवमुक्तस्तदाऽऽचार्यः प्रत्युवाच स्मयन्निव।
मामजित्वा न बीभत्सो शक्यो जेतुं जयद्रथः॥ 7-91-7(48130)
एतावदुक्त्वा तं द्रोणः शरव्रातैरवाकिरत्।
सरथाश्वध्वजं तीक्ष्णैः प्रहसन्वै ससारथिम्॥ 7-91-8(48131)
ततोऽर्जुनः शरव्रातान्द्रोणस्यावार्य सायकैः।
द्रोणमभ्यर्दयद्बाणैर्घोररूपैर्हत्तरैः॥ 7-91-9(48132)
विव्याध च रणे द्रोणमनुमान्य विशाम्पते।
क्षत्रधर्मं समास्थाय नवभिः सायकैः पुनः॥ 7-91-10(48133)
तस्येषूनिषुभिश्छित्त्वा द्रोणो विव्याध तावुभौ।
विषाग्निज्वलितप्रख्यैरिषुभिः कृष्णपाण्डवौ॥ 7-91-11(48134)
इयेप पाण्डवस्तस्य बाणैश्छेत्तुं शरासनम्।
तस्य चिन्तयतस्त्वेव फल्गुनस्य महात्मनः॥ 7-91-12(48135)
द्रोणः शरैरसम्भ्रान्तो ज्यां चिच्छेदाशु वीर्यवान्।
विव्याध च हयानस्य ध्वजं सारथिमेव च॥ 7-91-13(48136)
अर्जुनं च शरैर्वीरः स्मयमानोऽभ्यवाकिरत्।
एतस्मिन्नन्तरे पार्थः सज्यं कृत्वा महद्धनुः॥ 7-91-14(48137)
विशेषयिष्यन्नाचार्यं सर्वास्त्रविदुषां वरः।
मुमोच षट्शतान्बाणान्गृहीत्वैकमिव द्रुतम्॥ 7-91-15(48138)
पुनः सप्तशतानन्यान्सहस्रं चानिवर्तिनः।
चिक्षेपायुतशश्चान्यांस्तेऽघ्नन्द्रोणस्य तां चमूम्॥ 7-91-16(48139)
तैः सम्यगस्तैर्बलिना कृतिना चित्रयोधिना।
मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः॥ 7-91-17(48140)
विसूताश्वध्वजाः पेतुः सञ्छिन्नायुधजीविताः।
रथिनो रथमुख्येभ्यः सहसा शरपीडिताः॥ 7-91-18(48141)
चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः।
तुल्यरूपा गजाः पेतुर्गिर्यग्राम्बुदवेश्मनाम्॥ 7-91-19(48142)
पेतुरश्वसहस्राणि प्रहतान्यर्जुनेषुभिः।
हंसा हिमवतः पृष्ठे वारिविप्रहता इव॥ 7-91-20(48143)
रथाश्वद्विपपत्त्योघाः सलिलौघा इवाद्भुताः।
युगान्तादित्यरश्म्याभैः पाण्डवास्त्रशरैर्हताः॥ 7-91-21(48144)
तं पाण्डवादित्यशरांशुजालं
कुरुप्रवीरान्युधि निष्टपन्तम्।
स द्रोणमेघः शरवृष्टिवेगैः
प्राच्छादयन्मेघ इवार्करश्मीन्॥ 7-91-22(48145)
अथात्यर्थं विसृष्टेन द्विषतामसुभोजिना।
आजघ्ने वक्षसि द्रोणो नाराचेन धनञ्जयम्॥ 7-91-23(48146)
स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाऽचलः।
धैर्यमालम्ब्य बीभत्सुर्द्रोणं विव्याध पत्रिभिः॥ 7-91-24(48147)
द्रोणस्तु पञ्चभिर्बाणैर्वासुदेवमताडयत्।
अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः॥ 7-91-25(48148)
विशेषयिष्यञ्शिष्यं च द्रोणो राजन्पराक्रमी।
अदृश्यमर्जुनं चक्रे निमेषाच्छरवृष्टिभिः॥ 7-91-26(48149)
प्रसक्तान्पततोऽद्राक्ष्म भारद्वाजस्य सायकान्।
मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम्॥ 7-91-27(48150)
तेऽभ्ययुः समरे राजन्वासुदेवधनञ्जयौ।
द्रोणसृष्टाः सुबहवः कङ्कपत्रपरिच्छदाः॥ 7-91-28(48151)
तत्राद्भुतमपश्याम शिलानामिव सर्पणम्।
यद्द्रोणं तरसा पार्थो वृद्धं बालोऽपि नातरत्॥ 7-91-29(48152)
चिन्तयामास वार्ष्णेयो दृष्ट्वा द्रोणस्य विक्रमम्।
नातिवर्तिष्यते ह्योनं वेलामिव महार्णवः॥ 7-91-30(48153)
ततः पार्थं समुद्विग्नं लक्ष्य चिन्तयतेऽच्युतः।
द्रोणस्य चापि विक्रान्तं दृष्ट्वा मधुनिषूदनः।
इत्यब्रवीद्वासुदेवो धनञ्जयमुदारधीः॥ 7-91-31(48154)
पार्थपार्थ महाबाहो न नः कालात्ययो भवेत्।
द्रोणमुत्सृज्य गच्छामो ब्राह्मणोऽसौ गतक्लमः॥ 7-91-32(48155)
सञ्जय उवाच। 7-91-33x(4495)
पार्थश्चाप्यब्रवीत्कृष्णं यथेष्टमिति केशवम्॥ 7-91-33(48156)
ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान्महाभुजम्।
परिवृत्तश्च बीभत्सुरगच्छद्विसृजञ्शरान्॥ 7-91-34(48157)
ततोऽब्रवीत्स्वयं द्रोणः क्वेदं पाण्डव गम्यते।
ननु नाम रणे शत्रुमजित्वा न निवर्तसे॥ 7-91-35(48158)
अर्जुन उवाच। 7-91-36x(4496)
गुरुर्भवान्न मे शत्रुः शिष्यः पुत्रसमोऽस्मि ते।
न चास्ति स पुमाँल्लोके यस्त्वां युधि पराजयेत्॥ 7-91-36(48159)
सञ्जय उवाच। 7-91-37x(4497)
एवं ब्रुवाणो बीभत्सुर्जयद्रथवधोत्सुकः।
त्वरायुक्तो महाबाहुस्त्वत्सैन्यं समुपाद्रवत्॥ 7-91-37(48160)
तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ।
अन्वयातां महात्मानौ विशन्तं तावकं बलम्॥ 7-91-38(48161)
ततो जयो महाराज कृतवर्मा च सात्वतः।
काम्भोजश्च श्रुतायुश्च धनञ्जयमवारयन्॥ 7-91-39(48162)
तेषां दशसहस्राणि रथानामनुयायिनाम्।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः॥ 7-91-40(48163)
मावेल्लका ललित्थाश्च केकया मद्रकास्तथा।
नारायणाश्च गोपालाः काम्भोजानां च ये गणाः॥ 7-91-41(48164)
कर्णेन विजिताः पूर्वं सङ्ग्रामे शूरसम्मताः।
भारद्वाजं पुरस्कृत्य हृष्टात्मानोऽर्जुनं प्रति॥ 7-91-42(48165)
पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम्।
त्यजन्तं तुमुले प्राणान्सन्नद्धं चित्रयोधिनम्॥ 7-91-43(48166)
गाहमानमनीकानि मातङ्गमिव यूथपम्।
महेष्वासं पराक्रान्तं नरव्याघ्रमवारयन्॥ 7-91-44(48167)
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम्।
अन्योन्यं वै प्रार्थयतां योधानामर्जुनस्य च॥ 7-91-45(48168)
जयद्रथवधप्रेप्सुमायान्तं पुरुषर्षभम्।
न्यवारयन्त सहिताः क्रिया व्याधिमिवोत्थितं॥ ॥ 7-91-46(48169)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशोदिसयुद्धे एकनवतिततमोऽध्यायः॥ 91 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-91-19 गिर्यग्राम्बुदवेश्मनां वज्रानिलहुताशनैः चूर्णिताक्षिप्तदग्धानां इति यथासङ्ख्येनान्वयः॥ 5-91-91 एकनवतितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|